The Scriptural Characteristics of an Avatara According to Sanatana Dharma

The Scriptural Characteristics of an Avatara According to Sanatana Dharma
Memory trick: 5D-WBRT
1. Purpose: Restoring Dharma
An avatara appears with a clear, selfless purpose, to restore dharma. Rather than acting for personal gain, fame, or narrow interests, the avatara descends for the protection of the righteous, the correction of adharma, and the re-establishment of cosmic and moral order.

2. Divine Qualities Beyond the Ordinary
An avatara manifests extraordinary divine qualities such as perfect compassion, complete knowledge (divine wisdom), freedom from selfish desire, fearlessness, and divine authority. Although not every avatara performs miracles constantly, their life and actions reveal a divine purpose and power that transcend ordinary human capability.

3. Divine Life and Conduct
The life of an avatara consistently reflects divine virtues in thought, word, and action. Their conduct demonstrates unwavering adherence to dharma, Wise kindness, truthfulness, detachment from personal gain, and an unceasing commitment to the spiritual upliftment of all beings. Their life itself becomes a living example of the teachings they impart.

4. Divine Symbols and Auspicious Signs
Many scriptures describe avatara as bearing divine symbols or auspicious marks (lakṣaṇas), either on their bodies . These may include the  marks of the conch (śaṅkha), discus (chakra), lotus (padma), and other auspicious characteristics described in the Puraṇas and Agamas. Such signs, however, are supplementary indicators and should always be understood alongside scriptural testimony, divine qualities, teachings, and life. They are not, by themselves, sufficient proof of avatarahood.

5. Manifestation of the Divine Opulences (Bhaga)
An avatara manifests the six supreme opulences (Bhaga) traditionally associated with Bhagavān- 1. complete knowledge, 2. strength, 3.wealth, 4. fame, 5. beauty, and 6. renunciation, in the measure required for the purpose of the incarnation. These divine attributes distinguish the avatara from ordinary beings and reflect the fullness of the Divine.
[ ज्ञान, धन, बल वैराग्य, यश, और सौंदर्य।]

6. Teaching Eternal Truth
An avatara teaches eternal truths that are in harmony with the Vedas, uphold dharma, and guide beings toward God. Their teachings emphasize righteousness, compassion, truthfulness, devotion, and self-realization, presenting timeless spiritual principles rather than merely personal or novel doctrines.

7. Working for the Welfare of the World (Loka-saṅgraha)
The mission of an avatara is loka-saṅgraha-the preservation, welfare, and upliftment of the world. Their concern is universal, extending beyond any single community, sect, or group of followers.

8. Birth Without Karma (No Karmic Bondage or Burden)
An avatara is not born as a result of past karma. As taught in the Bhagavad Gita (4.6), the Lord takes birth through His own divine potency (Yoga Maya) while remaining unborn and eternal. Consequently, the avatara is never bound by karma in the way ordinary beings are.

9. Recognition by Scripture and Realized Devotees
Recognition of an avatara is traditionally based on scriptural descriptions or prophecies, the testimony of realized Devotees, and the person's divine life, teachings, and works. Within Sanātana Dharma, neither self-proclamation nor popularity alone is regarded as sufficient evidence of avatarahood.


Knowledge Through Poetry (Especially in Sanskrit)

Knowledge expressed in poetry endures. Verse is easy to remember and simple to transmit, even without writing. In the Sanskrit tradition, wisdom was preserved orally for centuries, carried faithfully through sound and memory. In Sanskrit especially, the power of sandhi allows sounds and meanings to unite within a single, flowing expression. Words do not stand isolated; they merge, resonate, and create a living current of meaning. Poetry enters the heart through rhythm and resonance. No script is required-the Sanskrit word itself, woven through sandhi, shines complete and self-contained. It can travel intact from one heart to another. Even in times of destruction, when manuscripts are lost and structures fall, poetry safeguards knowledge. Memory becomes the temple, sound becomes the scripture, and the living voice becomes the preserver of truth. Thus, poetry is not merely ornamentation-it is a powerful vessel for holding, protecting, and disseminating knowledge across generations.

श्रीभगवान्-वर्णनम्

(श्रीभगवद्वर्णनम्)

यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,

स एव परमात्मा पूर्णब्रह्म स इति कथ्यते भगवान्। 


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण संस्थितः।

स एव परमात्मा पूर्णब्रह्म स श्रीभगवान् स्मृतः॥


यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता स ईश्वरः।

यः ईश्वरः स एव भगवान् स परमब्रह्म आदिदेवः सनातनः॥


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण।

स एव परमात्मा पूर्णब्रह्म स हि कथ्यते श्रीभगवान्॥


ईश्वरस्य नास्ति आदिः, न च तस्यास्ति अन्तः।

अतः सः सदा अनादिः, अतः सः सदा अनन्तः।


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,

स एव परमात्मा पूर्णब्रह्म स इति कथ्यते भगवान्। 


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण संस्थितः।

स एव परमात्मा पूर्णब्रह्म स श्रीभगवान् स्मृतः॥


यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता स ईश्वरः।

यः ईश्वरः स एव भगवान् स परमब्रह्म आदिदेवः सनातनः॥


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण।

स एव परमात्मा पूर्णब्रह्म स हि कथ्यते श्रीभगवान्॥

भगवद्विषयकभ्रमनिवारणम्।

शृणुत, भक्तजनाः, एतत् सत्यं सनातनवचनम्।

यः कृष्णः स एव रामः, स एव श्रीपुरुषोत्तमः।


शृणुत, भक्तजनाः, एतत् सत्यं सनातनवचनम्।

स एव श्रीजगन्नाथः, स एव श्रीनारायणः।


कस्मादपि कारणात् मा भवत भ्रमितम्।

श्रीजगन्नाथं हृदि धारयत, भवतु सदा निश्चितम्।


स एव करुणावतारं संसारसारं त्रितापहरम्।

सर्वे जनाः प्रपश्यन्ति त्वां जगन्नाथं जनार्दनम्॥


भक्तहृदये वससि नित्यं करुणासागरम्।

परब्रह्मेति वेदान्तविदां मतमुत्तमम्॥


सांख्यविदः प्रपश्यन्ति त्वामेव परमेश्वरम्।

त्वां परमं पुरुषं प्राहुः पाञ्चरात्रज्ञकाः उत्तमम्॥


पतञ्जलिः सिद्धगणाः त्वां महापुरुषम्।

मीमांसकसमूहः विदुस्त्वां धर्मस्वरूपं॥


सर्वशास्त्रविदां नाथ त्वमेव परमं ध्रुवम्।

ते केवलं भजन्त्येनं लभन्ते मुक्तिं मोक्षपथम्।

भारतभूमौ भगवतोऽवतारस्य रहस्यम्। 

सर्वे मां पृच्छन्ति—
भगवान् भारतवर्षे एव किमर्थम् अवतरन्ति?
अहं वदामि—
देशानां मध्ये भारतभूमिः परमपवित्रमः।  
एषा तपोभूमिश्च ऋषिमुनिनां साधनक्षेत्रम्॥
इदं हि सनातनधर्मस्य मूलतत्त्वं प्रतिष्ठितम् अस्ति।
एतस्मात् कारणात् भगवान् अत्रैव अवतीर्णो भवति।
  
अत्रैव वेदाः प्रवृत्ताः, अत्रैव धर्मः प्रतिष्ठितः।  
इयं हि कर्मभूमिरेषा मोक्षस्यापि पुण्यक्षेत्रम्॥

इयं भारतभूमिः ईश्वरस्य लीलाक्षेत्रमस्ति।  
अत्र ये जन्यन्ते ते एव भाग्यवन्तो भवन्ति॥  

देशानां मध्ये भारतदेश एव मुक्ति–मोक्षक्षेत्रम्।  
यत्रैव सत्यमार्गोऽयं ज्ञानस्य च निकेतनम्॥ 
श्री जगन्नाथाष्टकम्।

वैकुण्ठे विहरन् रसमय-भक्ति-गीत-तरङ्ग-लीलान्वितः।
मुरली-कल-गान-मधुर-मनोज्ञ-स्वरोद्गीत-लास्यरतः।
सुन्दर-सौरभ-तनुः करुणा-निधिः भक्त-वर-दान-प्रदः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


वैकुण्ठे विराजन् कमल-सदृश-कान्ति-विभूषितः।
सर्व-देव-नमित-पदः सर्व-भक्त-हृदयान्तः स्थितः।
अखिल-जगत्-नाथोऽनन्तानन्द-सागरः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


क्षीरार्णव-तरङ्ग-ललित-चन्द्र-कलाधर-सुन्दरः।
देव-नुत-पद-पङ्कज-रजो-राजित-भास्करः।
नारायणो भक्त-वर-दः मुरली-रव-मोहितः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


गोलोक-सरोरुह-जल-तरल-लोचन-दीप्तिमान्।
लक्ष्मी-सहित-रस-रङ्ग-लीला-शालिन् सनातनः।
भक्त-जन-मानस-चन्द्रः त्रिभुवन-तमो-हरः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


वैकुण्ठ-विहारी, नरक-भय-हारी, सुर-पालक ईश्वरः।
गोलोक-नट-वर-किशोर-रूप-लावण्य-सुन्दरः।
सर्व-जन-प्रियः, कृपामय-हृदयः सुखदः सर्वेश्वरः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


सागर-माधवः क्षीरार्णव-शयनः श्रीहरि-रूपः।
गोलोक-भक्त-जन-रस-प्रवाह-वितरण-निश्नातः।
प्रेमानन्द-निधिः सर्व-देव-मुनि-मानितः श्री जगन्नाथः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


गोलोक-कान्तः प्रेमरसामृत-वारिधिः अनन्तः।
वैकुण्ठ-भूषणो हरिः क्षीर-सिन्धोः प्रकाशकः।
भक्त-जन-जन्म-सफलः अनन्त-कृपामयः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥


सर्व-लोक-नाथः भक्त-प्रियः दीनजन-शरण्यः।
गोलोक-वैकुण्ठ-मणि-भास्वर-विग्रह-माधवः।
मम जीवनस्य गतिःनित्य-आनन्द-रूप-देवः।
मम हृदये सदा स्थितः श्रीजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

इति श्री जगन्नाथाष्टकम् सम्पूर्णम्।
श्रीविष्णुचतुर्व्यूहप्रकृतिपरमात्मिकामन्त्रजपः॥
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय 
अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।

भगवतत्त्वविवेचनम्

यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,

स एव परमात्मा पूर्णब्रह्मेति कथ्यते भगवान्॥


यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता च,

स ईश्वरः स एव भगवान् परमब्रह्मादिदेवः सर्वेश्वरः॥

धर्मवैभवम् (धर्ममाहात्म्यम्)

धर्मो हि नित्यः स्वयमेव शुद्धः,

रूपाणि धृत्वापि न मुञ्चति स्वरूपम्।

युगे युगे सत्यमयः सत्त्वगुणः, सततप्रवाहः

सत्ये स्थितो हि धर्मः परं ब्रह्म सनातनम्॥

 

धर्मो मित्रं भक्तस्य, परलोकेऽपि सहायकः।

धर्मो हि परमं मित्रं, तिष्ठति स सदा सर्वत्र॥


धर्मो यत्र विपर्यस्तः, तत्र हिंसा प्रवर्तते सदा।

धर्मो यत्र सुव्यक्तः, तत्र शान्तिः प्रतिष्ठिता॥


धर्मो जीवस्य मित्रं स्यात्, धर्मः सृष्टेः सनातनं मूलम्।

धर्मो भक्तस्य नित्यं स्यात्, मृतस्यापि सहायवान्॥


धर्मः परममित्रं हि, नित्यं तिष्ठति सर्वदा।

सर्वत्र वर्तमानोऽयं, लोकत्रयेऽपि शाश्वतः॥


धर्मो मूलं यशसश्चैव, धर्मो मूलं पराक्रमस्य सदा।

धर्मे स्थितं जगत् सर्वं, धर्मे लोकाः प्रतिष्ठिताः॥


धर्मो मूलं सुखस्यैव, धर्मो मूलं तपसश्चैव सदा।

धर्महीनं धनं नित्यं न शोभते न तेजसा।


धर्मेण रक्षितो राजा, धर्मेण पालिता प्रजा।

धर्मेणैव वसुधा स्थिरा, धर्मः परमबलं स्मृतः॥


धर्मादर्थश्च कामश्च, धर्मे मोक्षो व्यवस्थितः।

धर्मः सर्वगतः नित्यः, सर्वान् त्रायति दुःखात्॥

इति सनातनधर्मस्य धर्मवैभवम् वर्णनम् संपूर्णम्।


निराकार ब्रह्म-साकारब्रह्म साधना

अरूपं शान्तमदृश्यं, मनसोऽपि परं तत्त्वम्।

न रूपं न च नामास्ति, केवलं ब्रह्म नित्यम्॥ 


न दृश्येन्द्रियगोचरे, न तिष्ठति तत्र चित्तं।

चलति विषयमार्गेषु, छायास्वेव वारं वारं॥


कथं गृह्णात्यनन्तं, यः जानाति स्पर्शदृशा।

देहबद्धो हि जीवः, समीपं वाञ्छति सदा॥


तस्मात् सन्तो वदन्ति, सौम्यया वाचा पुनः।

रूपः सेतुर्भवेद् हृदि, भक्तेर्मार्गप्रदर्शकः॥


नामरूपे समारभ्य, चित्तं शान्तिं निगच्छति।

सेवया प्रेमयुक्त्या, तदेकत्वं प्रपद्यते॥ 


न केवलं शिलामात्रं, प्रतिमा भावसूचिका।

अरूपस्य प्रवेशाय, सा भवेदेव साधिका॥ 


रूपादारभ्य मार्गः, अरूपे परिणीयते।

भयसंशयविहीनः, आत्मा तत्रैव लीयते॥


तस्मात् रूपं समाश्रित्य, भावभक्तिं विवर्धय।

ततः शान्ते मनसि, ब्रह्मस्पर्शोऽनुभूयते॥

 

शून्यसाधना

(मुक्त छंद)

शून्ये शान्ते चित्तमिदं विलीयते,

मौनप्रकाशे स्वयमेव लीयते।

नास्ति स्वभावो न च कश्चिदाश्रयः,

शून्ये विलीयते स्वतत्त्वमिदं॥


यत्र स्वात्मप्रभा केवलमेव दीप्यते,

तत्र परं तत्त्वं शून्यस्वरूपमेव॥


विमुक्तविकारं निरहं निरञ्जनं,

निर्लेपभावं विभाव्यते सततम्।

शून्यसाधनं विमुक्तविकारकं

साधकानां कृते सर्वोत्तमम्॥

सत्यः
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा परं ब्रह्म भगवान् हि सत्यम्॥
सत्यः
यः स्वयं-संपूर्णः स्वयं-सिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा पूर्ण-ब्रह्म स एव भगवान् हि सत्यम्॥
💓
सनातनधर्मस्य प्रथमः सोपानः
(The First Step of Sanatana Dharma)

प्रथमं सत्पुरुषो भव, ततः सर्वकर्माण्याचर।
कामक्रोधलोभवर्जितः, दयामार्गे सदा स्थितः॥

हत्याहिंसाविनिर्मुक्तः, धर्ममार्गे दृढस्थितः।
लोकहिते सदा युक्तः, सत्ये नित्यं प्रतिष्ठितः॥

दयाशीलसमायुक्तः, न्यायमार्गे व्यवस्थितः।
एषः सनातनधर्मस्य, प्रथमः सोपानः स्मृतः॥


सनातनधर्मस्य द्वितीयः सोपानः

(The Second Step of Sanatana Dharma)

प्रथमं निष्कामकर्म स्यात्, द्वितीयं तत्त्वज्ञानार्जनम्।
तृतीयो भक्तियोगश्च, चतुर्थं आत्मप्रकाशकम्॥

कर्मयोगेन चित्तशुद्धिः, ज्ञानयोगेन ज्ञानार्जनम्।
भक्तियोगेन भक्तिप्राप्तिः, जीवहिते श्रेष्ठा गतिः॥

सर्वे मार्गाः लक्ष्यन्ते, लभ्यते मोक्षः स्यात्।
एषः सनातनधर्मस्य, द्वितीयः सोपानः स्मृतः॥
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्।
तद्विना पतनं निश्चितम्।
कर्मधर्मद्विपक्षेण जीवस्य गतिः
[ईश्वरप्राप्त्युपायः]
(मुक्तछन्दः)

यथा पक्षी द्वाभ्यां पक्षाभ्यां गच्छत्यन्यं स्थलम्।
तद्वज्जीवः कर्मधर्माभ्यां गच्छत्यन्यं जीवनपथम्॥

यथा ज्ञानबलात् पक्षी दृढविश्वाससंयुतः।
प्राप्नोति स्वप्रियं स्थानं निश्चलधिया युतः॥

तथा जीवः निष्कामकर्मधर्मपरायणः।
ज्ञानयोगेन संयुक्तः श्रद्धाभक्तिसमन्वितः॥

प्रेमभक्त्यानुसेवया प्राप्नोति परमं पदम्।
परमानन्दमाप्नोति ईश्वरस्य दिव्यं धाम॥

बद्धमुक्तजीववर्णनम्।

शृणुत, भक्तजनाः, एतत् सत्यं सनातनवचनम्।
अस्मिन् जगति विद्यमानं बद्धमुक्तजीववर्णनम्॥

द्विविधा जीवावस्था स्यात्, बद्धा मुक्ता इति स्मृता।
बद्धाः संसारवर्तिनः, मुक्ताः परमाश्रिताः॥

नित्यधाम्नि निवासिनः, आत्मानोऽविकृताः सदा।
मायाविकाररहिताः, ते मुक्ताः इति कीर्तिताः॥

विकाररहिताः आत्मानः, शाश्वताः सर्वदा स्मृताः।
अविनाशिन एवैते, मुक्ताः नित्यनिर्मलाः॥

ये संसारे स्थिताः जन्तवः, कर्मबन्धनसंयुताः।
जन्ममृत्युवशं यान्ति, ते बद्धाः इति स्मृताः॥

एके नित्यपदे मग्नाः, अन्ये जन्ममृतौ रताः।
एके धामनि तिष्ठन्ति, अन्ये बन्धनावृताः॥

बद्धमुक्तविभेदेन, तत्त्वं जीवस्य दृश्यते।
भगवद्धाम्नि ये नित्यं, ते मुक्तत्वं प्रपद्यते॥

क्षर अक्षर जीववर्णनम्।

शृणुत, भक्तजनाः, एतत् सत्यं सनातनवचनम्।
अस्मिन् जगति विद्यमानं क्षराक्षरजीववर्णनम्॥

द्विविधा जीवजातिः स्यात्, क्षराक्षरसमन्विता।
क्षराः संसारवर्तिनः, अक्षराः परमाश्रिताः॥

नित्यधाम्नि निवासिनः, आत्मानोऽविकृताः सदा।
मायाविकाररहिताः, स एव अक्षराः इति कीर्तिताः॥

विकाररहिता आत्मानः, शाश्वताः सर्वदा स्मृताः।
अविनाशिन एवैते, अक्षरा नित्यनिर्मलाः॥

भगवल्लोकादन्येषु, ये लोकेषु संस्थिताः।
जन्ममृत्युवशं यान्ति, ते क्षरा इति स्मृताः॥

एके नित्यपदे मग्नाः, अन्ये जन्ममृतौ रताः।
एके धामनि तिष्ठन्ति, अन्ये बन्धनावृताः॥

क्षराक्षरविभेदेन, तत्त्वं जीवस्य दृश्यते।
भगवद्धाम्नि ये नित्यं, तेऽक्षरत्वं प्रपद्यन्ते॥

॥ इति सनातनधर्मस्य क्षराक्षरजीववर्णनं सम्पूर्णम् ॥

💓

जन्ममृत्युः (सत्यम्–मिथ्या)

(मुक्तछन्दः)

जीवस्य लोकेऽस्मिन् जीवनं पूर्णतया मिथ्या।

मरणानन्तरं सः जानाति लोकेऽस्मिन् सत्यम्॥


जीवस्य लोकेऽस्मिन् जीवनं केवलं स्वप्नम्।

मरणानन्तरं तत् भवति जाग्रतावस्थायां स्थितम्॥


तस्मात् जीवने सदा कर्तव्यं सदाचारं च सत्कर्म॥

अन्यथा मरणानन्तरं प्राप्नोति महद्दुःखकष्टम्॥

भक्त–भगवान्–भावः

भक्तः महाभावग्राही, भगवान् च तथैव सदा।

प्रेमसम्बन्धो महाभावः, स एव तयोः सदा॥

भगवदवतारवर्णनम्

भगवतोऽवतारा बहुधा प्रकीर्तिताः,

धर्मसंस्थापनार्थं लोकेऽवतारिताः॥

तेषां तत्त्वरहस्यं गूढं न बोधितुम् सुलभं ,

भक्त्या तु दिव्यतत्त्वं हृदि स्फुरति नित्यम्॥


चतुर्व्यूहेषु रूपेषु वासुदेवः परः स्मृतः,

संकर्षणः प्रद्युम्नोऽनिरुद्धश्चांशावताराः स्मृताः॥

एते हि व्यूहभेदाः दिव्यरूपप्रकाशकाः,

भगवतः स्वरूपस्य भिन्नांशाः उद्भासकाः॥


तेषामप्यंशरूपाणि लोके विभान्ति नित्यम्,

तानि भगवतः शक्त्या विश्वं बिभ्रति सततम्॥

अन्ये तु गुणावतारा जगति विख्याताः,

सत्त्वादिगुणभेदेन रूपाणि विभ्रताः॥


तेषामपि स्वरूपाणि लोके विभान्ति हि,

लीलया भगवान् विश्वं नित्यं बिभर्ति हि॥

एवं बहुविधैरवतारैर्जगदानुग्रहैः सततम्,

भक्त्या ज्ञायते तत्त्वं तस्य दिव्यं निरन्तरम्॥

भगवत्प्रसन्नता

(मुक्तछन्दः)

यः भक्तः स्तौति भगवतः चतुर्व्यूहरूपम्,

तस्मै भगवान् भवति प्रसन्नः सदा अत्यन्तम्॥


यः भक्तः स्तौति पार्श्वदेवतानां समरूपम्,

तस्मै भगवान् भवति प्रसन्नः सदा सर्वाधिकम्॥


एतदेव हि परमं सत्यं नित्यम्,

सर्वयुगेषु सर्वकालेष्वपरिवर्तनीयम्॥

सर्वकालेष्वपरिवर्तनीयम्=सर्व+ कालेषु + अपरिवर्तनीयम्

अवतारागमन-प्रस्थानस्य गूढत्वम्।

जगन्नाथ एव स्वकं जानात्यवतारसमागतम्।

मर्त्यलोकात् प्रस्थानं तस्यैवास्ति सुबोधितम्॥


न ब्रह्मा न च वेदाश्च न देवासुरमानवाः।

केवलमनुमानेन महिमा तस्य अनुभव्यते॥

ईश्वरस्य समदृष्टिः

ईश्वरस्य समीपे नास्ति कश्चित् भेदभेदता;

सर्वे जनाः तस्य समीपे समाना एव सदा।

मानवेषु समदृष्टिः समभावश्च।

(मुक्त छंद )

कः ईश्वरः कः मनुष्यः इति विज्ञातुं दुष्करम्।

तस्मात् सर्वेषां प्रति स्नेहः सम्मान एव  कर्तव्यम्।

मानवेषु समदृष्टिः समभावश्च।

(मुक्त छंद )

कः ईश्वरः कः मनुष्यः इति ज्ञातुं दुष्करम्।

तस्मात् सर्वेषां प्रति स्नेह-सम्मानमेव कर्तव्यम्।

बालगोपालेन ईश्वरलाभः

(मुक्तछन्दः)

मानवो धर्मं कर्म च न जानन्नपि गृहे स्थापयति बालगोपालम्।

चिन्तयन्ति ते,बालगोपालस्य सेवया एव  प्राप्स्यन्तीति परं पदं।


धर्मं वदति वारं वारं,ईश्वरप्राप्तौ प्रथमं शुद्धं मनोऽवश्यकम्।

निष्कामं कर्म,निष्कामो धर्मो,भक्तिर्भक्तसम्मानश्च  प्रयोजनम्॥

बालगोपालेन ईश्वरलाभः

(मुक्तछन्दः)

मानवोऽजानन् धर्मं कर्म च गृहे स्थापयति बालगोपालम्।

चिन्तयन्ति ते, बालगोपालस्य सेवया एव प्राप्स्यन्ति परं पदम्।


धर्मं वदति वारं वारम्, ईश्वरप्राप्तौ शुद्धं मनः प्रथमम् आवश्यकम्।

निष्कामं कर्म, निष्कामो धर्मः,भक्तिः भक्तसम्मानश्च परमं साधनम्॥

💓

श्रीकृष्णध्यानतत्त्वम्

(मुक्तछन्दः)

कं ध्यायेत् स परं तत्त्वं, यतः सूर्यचन्द्रमसौ।

नास्त्यन्यत्तत्त्वमुत्तुङ्गं, स्वात्मन्येव स संस्थितः॥


नास्त्यन्यो देवो ध्येयः, नान्यत् किञ्चित् परायणम्।

सर्वकारणभूतात्मा, स्वनाम्न्येव विलीयते॥


यथा गीता शास्त्रवरे, आत्मैव सन्निहितः सदा।

तथा भागवतेऽप्युक्तं, स्वात्मन्येवावतिष्ठते॥


निर्गुणं ब्रह्म यत् प्रोक्तं, तदेव स्वप्रकाशकम्।

नान्यत्तत्त्वं न भेदोऽस्ति, स एवैकः हरिः सत्यम्॥


ये तु भिन्नं परं मन्यन्ते, मोहिता अज्ञानवृत्तयः।

न जानन्ति शास्त्रार्थं, नापि बुध्यन्ते तत्त्वसारम्॥

भिक्षायाचनं

भिक्षायाचनं दानं न हि गृह्णीयात् कदाचन।

ऋणी हि भवति संसारे मानवः दानग्रहणेन॥

अन्त्य एव विकल्पोऽयं, न धर्म्यः स कदाचन।

स्वकर्मणा वर्तेतैव न याचनवृत्तया कदाचन॥

धनार्जन–दानग्रहण–नीतिवचनम्

शृणुत भक्तजनाः, एतत् सत्यं सनातनं वचनम्।

अकारणम् अप्रयोजने परधनग्रहणं न विधेयम्।


बुद्धि–विद्या–श्रमैरेव धनोपार्जनं कर्तव्यम्।

एष एव सनातनधर्मस्य सत्यसनातननियमः।


अकारणम् अप्रयोजने दानग्रहणं न विधेयम्।

असमर्थतायां, धर्मसङ्कटे एव, दानग्रहणं समीचीनम्।

एष एव सनातनपरम्परायाः वास्तविकः सत्यनियमः॥

एकत्वं दैवतत्त्वस्य

(एकत्वभावः)

नानानाम्ना स एकः, नानामार्गैः स एव हि।

सर्वेषां पथिकानां सः, एकं लक्ष्यं सनातनम्॥ 


कृष्णवेणुनिनादेन विश्वगीतं प्रवर्तते।

अल्लाहस्य इच्छया सर्वं सृष्टिचक्रं प्रवर्तते॥


कृष्णे प्रेम च लीला च, दिव्यभावः प्रकाशते।

ईश्वरे सत्यकृपा च, हृदि नित्यं विराजते॥


नानाभाषासु भेदोऽस्ति, तत्त्वं तु न भिद्यते।

एकं नित्यं सनातनं, नानानाम्ना प्रकीर्त्यते॥


बलभद्रः बलज्ञानैः, मार्गदर्शी सदा स्थितः।

अज्ञानात् पारमागतान् जनान् नयति सत्पन्थाम्॥


ईशुपुत्रे त्यागदृष्ट्या प्रेमकारुण्यदर्शनम्।

दर्शयति सदा लोके विनयस्य महात्म्यम्॥ 


नानामार्गाः समायान्ति, लक्ष्यं तु एकमेव हि।

यथा सूर्यकिरणाः सर्वे, एकस्मात् उद्भवन्ति हि॥


मा कुरुत भेददृष्टिं, मा कुरुत अज्ञानवृत्तिम्।

सर्वे यान्ति परं ज्योतिः, एकमेव सनातनम्॥ 

विज्ञत्वलक्षणम्

अज्ञः सदा चिन्तयति स्वकल्याणम्।

विज्ञः चिन्तयति संसारकल्याणम्॥


अज्ञानी करोति निजस्वार्थसाधनम्।

विज्ञानी करोति जगत्कल्याणम्॥

विज्ञत्वलक्षणम्

अज्ञः सदा चिन्तयति स्वकल्याणम्।

विज्ञः चिन्तयति संसारस्य कल्याणम्॥


अज्ञानी करोति निजस्वार्थसाधनम्।

विज्ञानी करोति जगत्कल्याणम्॥

जगत्-संसार।

जगत् सत्यं नित्यं च,तस्य परिवर्तनम् ईश्वराधीनम्।

संसारोऽपि दिव्यात्मकः मायाबद्धः सर्वक्षणम्॥


स्वकर्मकामनाः सर्वाः दोषिण्यः नित्यमशुद्धाः।

निष्कामकर्म योग्यं तु शुद्धतमं परं मतम्॥


जीवः कर्मार्थधर्मैश्च गृह्णात्यनेकम् ऋणं सततम्।

अन्ते तस्य परिशोधनं कर्तव्यं ज्ञात्वा कुरु कार्यम्॥

मायां मोहं दुःखं हरति ईश्वरतत्त्वम्।

[संसारसत्यदर्शनम्]

(मुक्तछन्दः)

चिकित्सकः न निवारयितुं शक्नोति मायां मोहं च दुःखम्।

केवलम् ईश्वरतत्त्वं निवारयितुं शक्नोति मायां मोहं च दुःखम्॥

केवलम् एतत् ईश्वरतत्त्वं संसारस्य एकमात्रं परमं सत्यम्।

यः जानाति एतत् ईश्वरतत्त्वं सः जानाति संसारस्य सत्यम्॥

यः जानाति संसारसत्यं स पश्यति निजानन्दरूपम्॥

संसारधर्मन्यायविचारः

(मुक्तछन्दः)

पितुः अपराधे मातुः दण्डनं महद् अहितकरम्।

पुत्रवधूकृते दोषे पुत्रस्य दोषारोपणम् अति अनिष्टकरम्।

गृहे गृहे, देशे देशे च युद्धविवादं अत्यन्तम् अनिष्टकरम्।

एकस्य दोषे दशजनदण्डनं कदापि न हितकरम्।

संसारस्य अस्मिन् क्लेशे न्यायशान्त्योः समर्थनं श्रेयस्करम्।

एषः सनातनधर्मस्य परमः शाश्वतः नित्यः नियमः।

भेदभावः

(देवभावः–मनुष्यभावः)

यः शास्त्रवाक्यैः जानाति परमं देवं श्रीजनार्दनम्।

शुद्धचित्तः पश्यति तस्मिन् दिव्यं तस्य सौरभम्॥

अज्ञात्वा तु परं तत्त्वं मनुष्यं मन्यते तम्।

दुर्गन्धं तत्र पश्यत्येषः न पश्यत्यन्यथा समम्॥

-----------------------------

पश्यत्येषः = पश्यति + एषः

पश्यत्यन्यथा = पश्यति + अन्यथा

💓

सत्योपासना

पूजायां नास्ति कालोऽत्र, न घंटानिनदः आवश्यकः।

न मन्त्रजपो न बाह्यकृत्यं, भाव एव ह्यावश्यकः॥


न पश्यति भगवान् द्रव्यं, न हेमावरणभूषणम्।

हृद्गूढभक्तिमेव पश्यति, शुद्धमानसपूजनम्॥

अजपाजपः

प्रथमं वाचिकजपः सुस्पष्टो मनोहरः ।  

शब्दान् प्रत्यक्षतो वेत्ति निरन्तरस्मृतिपरः ॥  

ततः शनैः शनैरन्तर्मन्त्रः स्वयं निनादति ।  

न यत्नोऽत्रावशिष्यते सुखपूर्णं प्रवर्तते ॥  


मन्दं मन्दं प्रवृत्तोऽयं न ममाधिपतिः क्वचित् ।  

मानसोऽयं जपः स्वाभाविकः सुसमाहितः ॥  

वातवेग इवायं तु स्वयमेव प्रवर्तते ।  

वनान्तरेषु सङ्गीतमिव शान्तं निराकुलम् ॥  


अन्ते कर्तृत्वभावोऽयं क्षीणो भूत्वा प्रकाशते ।  

निःशब्दा निश्चला प्रज्ञा चिदानन्दघना भवेत् ॥  

प्राणस्पन्दः स्वतः सूक्ष्मः कुण्डलिन्याः प्रवर्तते ।  

अनाहतनिनादोऽयं हृदि मन्त्रज्योतिरव्ययम् ॥

पूजा

यस्यां पूजायां न आवाहितं ब्रह्मरूपम्।

सा पूजा नाममात्रा, न तु शुद्धतत्त्वम्॥

शङ्खनिनादः शङ्खध्वनिः

(मुक्तछन्दः)

शङ्खनिनादः परं पवित्रं, शुभदं च आनन्दवर्धकम्।

अधर्मशोकभीतानां, तमसां च विनाशकम्॥


शङ्खध्वनिः शुभो भवतु, नरनार्योः सम्मिलनम्।

विष्णोः पूजाविधौ पुण्यं पापनाशनम् उत्तमम्॥


न स्त्री न च नरः भेदः धर्मे सत्ये च कर्मणि।

शङ्खध्वनिः सदा कार्यः नारायणप्रेमणि॥

शङ्खनिनादः शङ्खध्वनिः

(मुक्तछन्दः)

शङ्खनिनादः परं पवित्रं, शुभदं चानन्दवर्धकम्।

अधर्मशोकभीतानां तमसः च विनाशकम्॥


शङ्खध्वनिः शुभो भवतु, नरनार्योः सम्मिलनम्।

विष्णुपूजाविधौ पुण्यं पापनाशनमुत्तमम्॥


न स्त्री न च नरः भेदः धर्मे सत्ये च कर्मणि।

शङ्खध्वनिः सदा कार्यः नारायणप्रेमणि॥

शङ्खनादमहिमा।

(मुक्तछन्दः)

उद्घोषोऽयं शङ्खनादस्य दैविको पुण्यवर्धनः।

नारायणस्य प्रीत्यर्थम् उद्घोषयेत् शङ्खनादम्॥


नास्ति धर्मे स्त्रीपुंसोर्भेदभावः कदाचन।

सर्वे समत्वभावेन कुर्वन्तु शङ्खनादम्॥

चतुर्व्यूह‑ब्रह्म‑गायत्री‑मन्त्रः

ॐ चतुर्व्यूहरूपं विद्महे

तुलसीपवित्रं धीमहि।

तन्नो ब्रह्म प्रचोदयात्॥

शुद्धस्वरूप‑ब्रह्म‑गायत्री‑मन्त्रः

(ब्रह्म-गायत्री-मन्त्रः)

ॐ चतुर्व्यूहरूपं विद्महे

शुद्धस्वरूपं धीमहि।

तन्नो ब्रह्म प्रचोदयात्॥

💓

पञ्चदैवता-स्वरूपवर्णनम्

जगन्नाथं बलभद्रं च प्रद्युम्नं च अनिरुद्धम्।

परमात्मिकां प्रकृतिं च सृष्टेः पञ्चदैवतानि प्रथमम्॥


एतदतिरिक्तं सर्वेषु गृहगृहेषु पञ्चदेवताः।

ते स्वस्थानवर्तिनः सन्ति पञ्चदेवा इति स्मृताः॥

श्रीअनिरुद्धः-वर्णनम्।
जगन्नाथं बलभद्रं च प्रद्युम्नं च अनिरुद्धम्।
परमात्मिकां प्रकृतिं च सृष्टेः पञ्चदैवतानि प्रथमम्॥
शान्तं सौम्यं प्रसन्नवदनम्, अनन्तधैर्यं मधुरवचनम्।
अनन्तबुद्धिः अनन्तगुणम्, अनन्तत्यागं अल्पे सन्तुष्टम्।
स एव परमत्मनोऽंशः स्वयम्,स एव श्रीअनिरुद्धः स्वयम्।
श्री नारायणाष्टकम्
नमामीश्वरं सच्चिदानन्दरूपं,
परं ब्रह्म देवैर्वर्णनीयरूपम्।
तव लीला अनन्ता तव रूपमनन्तं,
न जानन्ति वेदाः न ब्रह्मादिदेवाः॥

नमो देवदेव अनन्तरूप,
प्रसीद प्रभो दुःखसिन्धौ निमग्नम्।
स्वलीलामृतानन्दकुण्डे निमग्नं,
मामुद्धर करुणासिन्धो त्वम्॥

इदं ते स्वरूपं नाथ बालं सुशोभं,
सदा मे मनस्येव विराजेत् नित्यम्॥
मुहुर्मुहुर्दृष्ट्या तवाधरशोभां,
विलोकयेयं मनो मे न याति तृप्तिम्॥

इदं ते मुखाम्भोजमत्यन्तशोभं,
स्निग्धैः कुन्तलैः शोभितं नाथ नित्यम्।
भक्तानां हृदिस्थं मनोज्ञं सुदिव्यं,
प्रेम्णा पुनः पुनर्वन्दे नाथ तुभ्यम्॥

कृपादृष्टिवृष्ट्या कृपां कुरु नाथ,
अनाथं सदाहं दयां त्वं प्रयच्छ।
न मोक्षं वृणेऽहं न चाप्यन्यकामं,
भवद्भक्तिमेवाहं वृणे प्रेमधाम॥

यथा पूर्वभक्तान् कृपया विमुक्तान्,
अकार्षीः प्रभो कृपानिधे मोक्षद॥
दयालो विभो त्वत्पदं मेऽस्तु नित्यं,
त्वद्भक्तियुक्तं मनो मेऽस्तु नित्यम्॥

नमो भगवते तेजसा भासमान,
यस्यान्तर्गतं विश्वमेतत् समस्तम्।
नमो ब्रह्मणे ते नमो विश्वरूपिन्,
नमोऽनन्तरूपाय देवाय तुभ्यम्॥

नमामीश्वरं सच्चिदानन्दरूपं,
परं ब्रह्म देवैर्वर्णनीयरूपम्।
नमो देवदेव अनन्तरूप,
प्रसीद प्रभो दुःखसिन्धौ निमग्नम्॥
💓
श्रीनारायण आरती

ॐ नमो नारायणाय, जगदीश प्रभो दयामय ।
भक्तजनार्तिहर्तारं, वन्दे त्वां करुणामयम् ॥

त्वमेव माता च पिता, त्वमेव शरणं मम ।
त्वमेव परमं ब्रह्म, त्वमेव हृदि संस्थितं ॥

दुःखदारिद्र्यनाशाय, भवभीतिविनाशाय च ।
भक्तानां मंगलदाता, नमस्ते पुरुषोत्तम ॥

करुणासागर देवेश, मां पालय कृपामय ।
अज्ञानतिमिरं हत्वा, भक्तिं मे हृदि वर्धय ॥

पापविकारसंहारिन्, दीनबन्धो परमेश्वर ।
भक्तिसेवाप्रदः त्वं, रक्ष मां जगदीश्वर ॥

ॐ जय देव जगन्नाथ, जय विष्णो सनातन ।
क्षणेन हर मे क्लेशान्, नमामि त्वां जनार्दन ॥
कल्कि धर्मसेना गीत।
चल रे, चल रे, चल।
चल रे, चल रे, चल।
चल रे, चल रे, चल।

पूर्व गगने देख शतदल,
निम्ने अशान्त धरणीतल।
परमब्रह्म की धर्मसेना,
चल रे, चल रे, चल।

पूर्व गगने शंखनाद, निम्ने शत्रु-दल।
कल्कि-राम की कल्कि-सेना,
चल रे, चल रे, चल।
“Let us conclude by listening to this profound and sacred mantra.”
महामन्त्रःश्रीविष्णुचतुर्व्यूहप्रकृतिपरमात्मिकामन्त्रजपः॥
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।
ॐ श्रीवासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय प्रकृत्यै परमात्मिकायै नमः।

Popular posts from this blog

Vaishnavism, Branches of Vaishnavism : Shaivism, Smarta and Vaishnava Traditions, and the Determination of Festivals According to Smarta and Vaishnava Practices.

Self-realization, Mukti (liberation) ,Moksha (final culmination)

The Goals of Life and The Teaching of the Five Debts .